|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.78. अध्यायः 078
Mahabharata - Sabha Parva - Chapter Topics
दुर्योधनेन धृतराष्ट्रसमीपे युधिष्ठिराय नानादेशीयराजोपाहृतोपायनवर्णनम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
दुर्योधन उवाच॥
यन्मया पाण्डवोयानां दृष्टं तच्छृणु भारत।
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः॥ 2-78-1(14418)
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम्।
फलतो भूमितो वाऽपि प्रतिपद्यस्व भारत॥ 2-78-2(14419)
और्णान्बैलान्वार्षदंशान् जातरूपपरिष्कृतान्।
प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ बहून्॥ 2-78-3(14420)
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्।
अष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः॥ 2-78-4(14421)
गोपाः स्वीयेन सहितास्तदादाय चतुष्पदम्।
वसातयोऽन्यद्द्रव्यं द्वारि तस्यावतस्थिरे॥ 2-78-5(14422)
कमण्डलूनुपादाय जातरूपमयञ्छिवान्।
रत्नानि च हिरण्यं च सुवर्णं चैव केवलम्। 2-78-6(14423)
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः।
त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत्॥ 2-78-7(14424)
यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः।
प्रीत्या दत्तः कुविन्देन धर्मराजाय धीमते॥ 2-78-8(14425)
तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने।
तं प्रत्यगृह्णाद्बीभत्सुस्तोयजं हेममालिनम्॥ 2-78-9(14426)
चित्रं निष्कसहस्रेण भ्राजमानं स्वतेजसा।
रुचिरं दर्शनीयं च पूजितं विश्वकर्मणा॥ 2-78-10(14427)
अधारयच्च धर्मश्च तं नमस्य पुनः पुनः।
योऽनादनेऽपि नदति स ननादाधिकं तदा॥ 2-78-11(14428)
प्रणादाद्भूमिपास्तस्य पेतुर्हीनाः खतेजसा।
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः॥ 2-78-12(14429)
सत्वेन स्वेन सम्पन्ना अन्योन्यप्रियकारिणः।
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा॥ 2-78-13(14430)
ततः प्रहृष्टो बीभत्सुरददाद्धेमशृङ्गिणः।
शताननडुहान्पञ्च द्विजमुख्याय भारत॥ 2-78-14(14431)
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे।
कुविन्देन हिरण्यं च वासांसि विविधानि च॥ 2-78-15(14432)
काश्मीरराजो मार्द्वीकं शुद्धं च सरसं मधु।
बलिं च कुत्स्नमादाय पाण्डवायाभ्युटपागमत्॥ 2-78-16(14433)
यवना हयानुपादाय पार्वतीयान्मनोजवान्।
आसनानि महार्हाणि कम्बलांश्च महाधनान्॥ 2-78-17(14434)
नवान्सूक्ष्मांश्च हृद्यांश्च परार्थ्यान्सुप्रदर्शनान्।
अन्यच्च विविधं रत्नं द्वारि ते न्यवतस्थिरे॥ 2-78-18(14435)
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम्।
अङ्गः स्त्रियो दर्शनीया जातरूपविभूषिताः॥ 2-78-19(14436)
वङ्गो जाम्बूनदमयान्पर्यङ्गाञ्छतशो नृप।
दक्षिणात्सागराभ्याशात्प्रावारांश्च परश्शतम्॥ 2-78-20(14437)
औदकानि सरत्नानि बलिं चादाय भारत।
अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत्॥ 2-78-21(14438)
दार्दुरं चन्दनं मुख्यं भारं षण्णवति द्रुतम्।
पाण्डवाय ददौ पाण्ड्यः शङ्खांस्तावत एव च॥ 2-78-22(14439)
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिताः।
चोलश्च केरलश्चोमौ ददतुः पाण्डवाय वै॥ 2-78-23(14440)
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषितः।
सवत्साः कुम्भदोहाश्च सहस्राण्यददाद्दश॥ 2-78-24(14441)
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम्।
अददात्सैन्धवो राजा हेममाल्यैरलङ्कृतान्॥ 2-78-25(14442)
सौवीरो हस्तिभिर्युक्तान्रथांश्च त्रिशतं परान्।
जातरूपपरिष्कारान्मणिरत्नविभूषितान्॥ 2-78-26(14443)
मध्यन्दिनार्कप्रतिमांस्तेजसा ज्वलितानिव।
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्॥ 2-78-27(14444)
अवन्तिराजो रत्नानि विविधानि सहस्रशः।
हाराङ्गदांश्च मुख्यान्वै विविधं च विभूषणम्॥ 2-78-28(14445)
दासीनामयुतं चापि बलिमादाय भारत।
सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते॥ 2-78-29(14446)
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान्।
वस्त्राणि मुख्यान्यादाय रत्नानि विविधानि च।
बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्॥ 2-78-30(14447)
काशिराजेन हृष्टेन बली राज्ञि निवेदितः।
अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम्॥ 2-78-31(14448)
अयुतं च नदीजानां हयानां हेममालिनाम्।
विविधानि च रत्नानि काशिराजो बलिं ददौ॥ 2-78-32(14449)
कृतक्षणश्च वैदेहः कौसलश्च बृहद्बलः।
ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश॥ 2-78-33(14450)
शैब्यो वसादिभिः सार्धं त्रिगर्तो मालवैः सह।
तेभ्यो रत्नानि ददतुरेकैको भूमिपोऽमितम्॥ 2-78-34(14451)
हारान्मुख्यान्परार्ध्यांश्च विविधं च विभूषणम्।
शतं दासीसहस्राणि कार्पासिकनिवासिनाम्॥ 2-78-35(14452)
श्यामास्तन्वीर्दीर्घकेशीर्हेमाभरणभूषिताः।
बलिं च कृत्स्नमादाय भारुकच्छो नरर्षभ॥ 2-78-36(14453)
शुद्धान्विप्रोत्तमार्हांश्च कम्बलप्रवरान्ददौ।
ते सर्वे पाण्डुपुत्रस्य द्वार्यतिष्ठन्दिदृक्षवः॥ 2-78-37(14454)
उपायनं यदा दद्युस्तदा द्वारमलभ्यत।
इन्द्रकृष्टैर्वर्धयन्ति धान्यैर्नदमुखैस्तु ये॥ 2-78-38(14455)
समुद्रनिकटे जाताः परिसिन्धुनिवासिनः।
ते वै द्रुमाः पारदाश्च काश्यकैरातकैः सह॥ 2-78-39(14456)
बलिं विविधमादाय रत्नानि विविधानि च।
अजाविकं गोहिरण्यं खरोष्ट्रं फलवन्मधु॥ 2-78-40(14457)
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः।
प्राग्ज्योतिषपतिः शूरो म्लेच्छानामधिपो बली॥ 2-78-41(14458)
यवनैः सहितो राजा भगदत्तो महाबलः।
आजानेयान्हयाञ्छीघ्रमादायानिलरंहसः॥ 2-78-42(14459)
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः।
अश्वसारमयान्भाण्डाञ्छुभान्दन्तत्सरूनसीन्॥ 2-78-43(14460)
प्राग्ज्योतिषाधिपो दत्त्वा भगदत्तोऽव्रजत्तदा।
व्यक्षाङ्ख्यक्षांल्ललाटाक्षान्नानादिग्भ्यः समागतान्॥ 2-78-44(14461)
औष्णीषआनहयांश्चैव बाहुकान्पुरुषादकान्।
एकपादांश्च तत्राहमपश्यं द्वारि वारितान्॥ 2-78-45(14462)
बल्यर्थं ददतस्तस्य हिरण्यं रजतं वसु।
इन्द्रगोपकसङ्काशाञ्छुकवर्णान्मनोजवान्॥ 2-78-46(14463)
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि।
अनेकवर्णानारण्यान्गृहीत्वाश्वांस्तथा बहून्॥ 2-78-47(14464)
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः।
सिंहलश्च तदा राजा परिगृह्य धनं बहु॥ 2-78-48(14465)
गोशीर्षं हरितश्यामं चन्दनप्रवरं महत्।
भाराणां शतमेकं तु द्वारि तिष्ठति वारितः॥ 2-78-49(14466)
ये नग्नविषया राजन्बर्बरेयाश्च विश्रुताः।
शतं दासीसहस्राणां कम्बलांश्च सहस्रशः।
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः॥ 2-78-50(14467)
पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः।
कालेयकं च रूप्यं च परिगृह्य परिच्छदान्॥ 2-78-51(14468)
अगरून्स्फाटिकांश्चैव दन्ताञ्जातीफलानि च।
तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबल॥ 2-78-52(14469)
अन्यांश्च विविधान्द्रव्यान्परिगृह्योपतस्थिरे।
एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः॥ 2-78-53(14470)
शैलेयश्च ततो राजा पत्रोर्णान्परिगृह्य सः।
द्वारि तिष्ठन्महाराज द्वारपालैर्निवारितः॥ 2-78-54(14471)
चीना हूणाः कषाः काचाः पर्वतान्तरवासिनः।
आहार्षुर्दशसाहस्रान्विन्नीतान्दिक्षु विंश्रुतान्॥ 2-78-55(14472)
औष्णीकं कम्बलं चैव कीटजं मणिजं तथा।
प्रमाणरागस्पर्शाढ्यं बाह्वीचीनसमुद्भवम्॥ 2-78-56(14473)
रसान् गन्धान्प्रशंसन्तस्ततो द्वारमलभ्यत।
खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा॥ 2-78-57(14474)
चेलान्बहुविधान्गृह्य द्वारि तिष्ठन्ति वारिताः।
प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा॥ 2-78-58(14475)
नापितास्त्रैपुराश्चैव पञ्चमेयाः सहोरुजाः।
तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान्॥ 2-78-59(14476)
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः।
शकास्तुषाराः कौरव्य रोमकाः शृङ्गिणोश्मकाः॥ 2-78-60(14477)
बलादूरुगमा राजन्गणितं चार्बुदं मया।
कूटीकृतं सुवर्णं च पद्मकिञ्जल्कसंनिभम्॥ 2-78-61(14478)
शितान्दीर्घानसीनन्यान्यष्टिशक्तिपरश्वथान्।
श्लक्ष्णं वस्त्रमकार्पसमाविकं मृदु चाजिनम्॥ 2-78-62(14479)
बलं मत्तं समादाय द्वारि तिष्ठन्ति वारिताः।
आसनानि महार्हाणि यानानि शयनानि च॥ 2-78-63(14480)
मणिकाञ्चनचित्राणि गजदन्तमयानि च।
रथांश्च विविधाकाराञ्जाम्बूनदपरिष्कृतान्॥ 2-78-64(14481)
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारितान्।
विचित्रान्सपरिस्तोमांश्चापानि विविधानि च। 2-78-65(14482)
नाराचानर्घनाराचाञ्छस्त्राणि विविधानि च।
एतद्द्रव्यं महद्गृह्य पूर्वदेशाधिपो नृपः॥ 2-78-66(14483)
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः।
जन्तुचेलान्द्विसाहस्रान्दुकूलान्ययुतानि च॥ 2-78-67(14484)
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च।
एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा॥ 2-78-68(14485)
अन्यान्बहुविधान्राजन्नरः सागरमाश्रिताः।
रत्नानि विविधान्गृह्य ददुस्ते पाण्डवाय तु॥ 2-78-69(14486)
मालवाश्च ततो राजन्रत्नानि विविधानि च।
गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम्॥ 2-78-70(14487)
अन्यांश्च विविधान्धान्यान्परिगृह्य महाबलः।
पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम्॥ 2-78-71(14488)
नानारत्नान्बहून्गृह्य सुराष्ट्राधिपतिर्नृपः।
तैलकुम्भान्महाराज द्रोणानामयुतानि च॥ 2-78-72(14489)
गुडानपि स तान्स्वादून्सहस्रशकटैर्नृपः।
एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः॥ 2-78-73(14490)
अन्ये च पार्थिवा राजन्नानादेशसमागताः।
रत्नानि विविधान्गृह्य ददुस्ते कौरवाय तु॥ 2-78-74(14491)
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते।
करं तु न प्रयच्छेत नास्ति पार्थस्य पार्थिवः॥ 2-78-75(14492)
नरः सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः।
क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा॥ 2-78-76(14493)
इमांश्च दायान्विविधान्निबोध मम पार्थिव।
यज्ञाप्थे राजभिर्दत्तान्महतो धनसञ्चयान्॥ 2-78-77(14494)
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्।
ये ते कीचकवेणूनां छायां रम्यामुपासते॥ 2-78-78(14495)
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः।
पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः॥ 2-78-79(14496)
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः।
जातरूपं द्रोणमेयमहार्षुः कुञ्जशो नराः॥ 2-78-80(14497)
कृष्णवालांश्च चमराञ्छुक्लवालांस्तथा परान्।
हिमवत्पुष्पजं चैव स्वादुक्षौद्ररसं बहु॥ 2-78-81(14498)
उत्तरेभ्यः कुरुभ्यश्च व्यूढमाल्यैर्महात्मभिः।
उत्तरादपि कैलासादोषधीः सुमहाबलाः॥ 2-78-82(14499)
पार्वतीयाश्चराजान आहृत्य प्रणताः स्थिताः।
अजातशत्रवे राजन्द्वारि तिष्ठन्ति वारिताः॥ 2-78-83(14500)
ये परार्घ्या हिमवतः सूर्योदयगिरेरनु।
एवंरूपाः समुद्रान्ते लौहित्यमभितश्च ये॥ 2-78-84(14501)
फलमूलाशना ये च किराताश्चर्मवाससः।
चन्द्नागरुमुख्यानि महार्हान्कम्बलानि च॥ 2-78-85(14502)
चर्मरत्नसुवर्णानि गन्धानुच्चावचानि च।
कैरातकीनामयुतं दासीनां च विशंपते ॥ 2-78-86(14503)
आहृत्य रमणीयार्थान्दूरगान्मृगपक्षिणः।
निचितं पर्वतेभ्यश्च हिरण्यंभूरिवर्चसम्॥ 2-78-87(14504)
बलिं च कृत्स्त्रमादाय द्वारि तिष्टन्ति वारिताः।
कापव्या दरदा दर्वाः शूरा वै यमकास्तथा॥ 2-78-88(14505)
औदुम्बरा दुर्विभागा द्वारि तिष्टन्ति वारिताः।
काश्मीराश्च कुमाराश्च गौरका हंसकास्तथा॥ 2-78-89(14506)
शिबित्रैगर्तयौधेया राजन्या मद्रकैः सह।
वसुतेयाः समौलेया दाहक्षुद्रकमालवैः॥ 2-78-90(14507)
चौण्डिकाश्चौदकाश्चैव साल्वाश्चैव विशम्पते।
अङ्कवङ्काश्च यवना अनवद्या गयैः सह॥ 2-78-91(14508)
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः।
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवै॥ 2-78-92(14509)
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः।
दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत॥ 2-78-93(14510)
उपावृत्ता नृपास्तस्य ददुः प्रीतिं न चागमन्।
उच्यन्ते तत्र हि द्वार्स्थैर्बलिमादाय विष्ठिताः॥ 2-78-94(14511)
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथावृतान्।
शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः॥ 2-78-95(14512)
क्षमावतः कुलीनांश्च कुञ्जरान्सपरिच्छदान्।
दत्त्वैकैको दशशतान्द्वारेण प्रविशन्त्विति॥ 2-78-96(14513)
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः।
मरुकाः काशिका दर्दा भौमेया नटनाटकाः॥ 2-78-97(14514)
कर्णाटाः कांस्यकुट्टाश्च पद्मजालाः सतीनराः।
दाक्षिणात्याः पुलिन्दाश्च शवेरास्तङ्कणाः शषाः॥ 2-78-98(14515)
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा।
पल्लवाः शककारूशास्तुम्बकाः काशिकास्तदा॥ 2-78-99(14516)
एते चान्ये च बहवो नानादिगभ्यः समागताः।
अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः॥ 2-78-100(14517)
समुद्रसारवैडूर्यान्मुक्ताः शङ्खास्तथैव च।
शुभावर्ताञ्छुभाञ्छुक्तीः सिंहलाः समुपाहरन्॥ 2-78-101(14518)
सम्भृतान्मणिचीरैश्च श्यामांस्ताम्रान्तलोचनान्।
राजा चित्ररथो नाम गन्धर्वो वासवानुगः।
शतानि चत्वार्यददद्धयानां वातरंहसाम्॥ 2-78-102(14519)
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्।
आम्रपत्रसवर्णानामददद्धेममालिनाम्॥ 2-78-103(14520)
कृती राजा च कौरव्य शूकराणां विशाम्पते।
अददद्गजरत्नानां शतानि सुबहून्यथ॥ 2-78-104(14521)
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्।
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते॥ 2-78-105(14522)
पांसुराष्ट्राद्वमुदानो राजा षड्विंशतिं गजान्।
अश्वानां चसहस्रे द्वे राजन्काञ्चनमालिनाम्॥ 2-78-106(14523)
जवसत्वोपपन्नानां वयस्थानां नराधिप।
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्॥ 2-78-107(14524)
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश।
दासानामयुतं चैव सदाराणां विशाम्पते॥ 2-78-108(14525)
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा।
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्॥ 2-78-109(14526)
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः।
अददद्गजमुख्यानां सहस्राणि चतुर्दश॥ 2-78-110(14527)
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः।
यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्॥ 2-78-111(14528)
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत्।
तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्॥ 2-78-112(14529)
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान्।
मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान्॥ 2-78-113(14530)
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम्।
चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ॥ 2-78-114(14531)
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च।
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्॥ 2-78-115(14532)
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः।
ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः॥ 2-78-116(14533)
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः।
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा॥ 2-78-117(14534)
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम्।
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा॥ 2-78-118(14535)
नानादेशसमुत्थैश्चन नानाजितिभिरेव च।
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने॥ 2-78-119(14536)
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून्।
शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत॥ 2-78-120(14537)
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव।
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः॥ 2-78-121(14538)
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः।
रथानामर्बुदं चापि पादाता बहवस्तथा॥ 2-78-122(14539)
प्रमीयमाणमां च पच्यमानं तथैव च।
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च॥ 2-78-123(14540)
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम्।
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने॥ 2-78-124(14541)
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः।
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः।
सुप्रीताः परितृष्टाश्च ते ह्याशंसत्त्यरिक्षयम्॥ 2-78-125(14542)
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥ 2-78-126(14543)
अभुक्तं भुक्तवद्वापि सर्वमाकुब्जवामनम्।
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते॥ 2-78-127(14544)
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत।
साम्बन्धिकेनपाञ्चालाः सख्येनान्धकवृष्णयः॥ ॥ 2-78-128(14545)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अष्टसप्ततितमोऽध्यायः॥78॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-78-2 नाविदमिति सम्बन्धः। अपि तथापि मुख्यतो वक्ष्यमाणं धनं प्रतिपद्यस्वेत्यर्थ ः। फलतो जातं वस्त्रादि। भूमितो जातं हीरादि ॥ 2-78-5 वस्त्राणि धान्यद्रव्यं च घ.पाठः ॥ 2-78-104

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|